Sushrut Samhita Uttar Tantra 1-30

Sushrut Samhita Uttar Tantra Chapter-1

 

अध्याय के महत्वपूर्ण बिंदु:-

  • उपद्रव भूत उत्पन्न रोगों की चिकित्सा 

  • 120 अध्याय

  • शालाक्य तंत्र को विदेहाधिपती द्वारा वर्णित बताया गया  है।

  • पर्वतक बंधक जीवक के द्वारा कही गयी कौमार चिकित्सा

  • नेत्र का बाहुल्य 2 अंगुल या अंगुष्ठ उदार के समान

  • नेत्र का आयाम विस्तार 2.5 अंगुल

  • गोस्तनाकार

  • 5 मंडल  6 संधि  6 पटल

  • नेत्र में 6 पटल इसमें से 4 अक्षि गोलक के अंदर

  • अव्यक्त लक्षण नेत्र रोगों का पूर्व रूप है

  •  कुल नेत्र रोगों की संख्या 76 होती है

  • V- 10, P- 10 , K-13, R- 16, S- 25, Bahya- 2

  • संधि -9

  • वर्त्म- 21

  • शुक्ल-11

  • कृष्ण-4

  • सर्वगत-17

  • दृष्टि-12

  • बाह्य-2

Mark Some Important Shlokas:-

For Students of ayurved shlokas are very important. Presently these shlok are very much important for P.G. Entrance and other exams.

अध्यायानां शते विंशे यदुक्तमसकृन्मया | ——-120 अध्याय 

वक्ष्यामि बहुधा सम्यगुत्तरेऽर्थानिमानिति ||३||

इदानीं तत् प्रवक्ष्यामि तन्त्रमुत्तरमुत्तमम् |४| 

निखिलेनोपदिश्यन्ते यत्र [१] रोगाः पृथग्विधाः ||४||

शालाक्यतन्त्राभिहिता विदेहाधिपकीर्तिताः | 

ये च विस्तरतो दृष्टाः कुमाराबाधहेतवः ||५|| 

षट्सु कायचिकित्सासु ये चोक्ताः परमर्षिभिः | 

उपसर्गादयो रोगा ये चाप्यागन्तवः स्मृताः ||६|| 

त्रिषष्टी रससंसर्गाः स्वस्थवृत्तं तथैव च | —–रसों के संसर्ग का वर्णन, स्वस्थ वृत्त  का वर्णन 

युक्तार्था युक्तयश्चैव दोषभेदास्तथैव च ||७|| 

यत्रोक्ता विविधा अर्था रोगसाधनहेतवः |८| 

महतस्तस्य तन्त्रस्य दुर्गाधस्याम्बुधेरिव ||८|| 

आदावेवोत्तमाङ्गस्थान् रोगानभिदधाम्यहम् | 

सङ्ख्यया लक्षणैश्चापि साध्यासाध्यक्रमेण च ||९||

विद्याद्द्वयङ्गुलबाहुल्यं स्वाङ्गुष्ठोदरसम्मितम् |——–नेत्र का आयाम विस्तार 

द्व्यङ्गुलं सर्वतः सार्धं भिषङ्नयनबुद्बुदम् ||१०||

सुवृत्तं गोस्तनाकारं सर्वभूतगुणोद्भवम् |११| 

पलं भुवोऽग्नितो रक्तं वातात् कृष्णं सितं जलात् ||११||——–पाँच भौतिक स्वरूप 

आकाशादश्रुमार्गाश्च जायन्ते नेत्रबुद्बुदे |१२| 

दृष्टिं चात्र तथा वक्ष्ये यथा ब्रूयाद्विशारदः ||१२|| ———-दृष्टि का प्रमाण 

नेत्रायामत्रिभागं तु कृष्णमण्डलमुच्यते | 

कृष्णात् सप्तममिच्छन्ति दृष्टिं दृष्टिविशारदाः ||१३||

मण्डलानि च सन्धींश्च पटलानि च लोचने | 

यथाक्रमं विजानीयात् पञ्च षट् च षडेव च ||१४||

पक्ष्मवर्त्मश्वेतकृष्णदृष्टीनां मण्डलानि तु | ——-मंडल 

अनुपूर्वं तु ते मध्याश्चत्वारोऽन्त्या यथोत्तरम् ||१५||

पक्ष्मवर्त्मगतः सन्धिर्वर्त्मशुक्लगतोऽपरः | ——संधि 

शुक्लकृष्णगतस्त्वन्यः कृष्णदृष्टिगतोऽपरः | 

ततः कनीनकगतः षष्ठश्चापाङ्गगः स्मृतः ||१६||

द्वे वर्त्मपटले विद्याच्चत्वार्यन्यानि चाक्षिणि | 

जायते तिमिरं येषु व्याधिः परमदारुणः ||१७||

तेजोजलाश्रितं बाह्यं तेष्वन्यत् पिशिताश्रितम् | 

मेदस्तृतीयं पटलमाश्रितं त्वस्थि चापरम् ||१८||

पञ्चमांशसमं दृष्टेस्तेषां बाहुल्यमिष्यते |१९| 

सिरानुसारिभिर्दोषैर्विगुणैरूर्ध्वमागतैः ||२०||——निदान

जायन्ते नेत्रभागेषु रोगाः परमदारुणाः |२१| 

तत्राविलं ससंरम्भमश्रुकण्डूपदेहवत् [१] ||२१|| 

गुरूषातोदरागाद्यैर्जुष्टं [२] चाव्यक्तलक्षणैः | —–पूर्व रूप 

सशूलं वर्त्मकोषेषु शूकपूर्णाभमेव च ||२२|| 

विहन्यमानं रूपे वा क्रियास्वक्षि यथा पुरा | 

दृष्ट्वैव धीमान् बुध्येत दोषेणाधिष्ठितं तु तत् ||२३||

तत्र सम्भवमासाद्य यथादोषं भिषग्जितम् | 

विदध्यान्नेत्रजा रोगा बलवन्तः स्युरन्यथा ||२४||

सङ्क्षेपतः क्रियायोगो निदानपरिवर्जनम् | ——-चिकित्सा सिध्धांत 

वातादीनां प्रतीघातः प्रोक्तो विस्तरतः पुनः ||२५||

उष्णाभितप्तस्य जलप्रवेशाद्दूरेक्षणात् स्वप्नविपर्ययाच्च | 

प्रसक्तसंरोदनकोपशोकक्लेशाभिघातादतिमैथुनाच्च ||२६|| 

शुक्तारनालाम्लकुलत्थमाषनिषेवणाद्वेगविनिग्रहाच्च | 

स्वेदादथो धूमनिषेवणाच्च छर्देर्विघाताद्वमनातियोगात् | 

बाष्पग्रहात् सूक्ष्मनिरीक्षणाच्च नेत्रे विकारान् जनयन्ति दोषाः ||२७||

वाताद्दश तथा पित्तात् कफाच्चैव त्रयोदश | ——–दोशानुसार रोगों की संख्या 

रक्तात् षोडश विज्ञेयाः सर्वजाः पञ्चविंशतिः ||२८||

तथा बाह्यौ पुनर्द्वौ च रोगाः षट्सप्ततिः स्मृताः |२९| 

हताधिमन्थो निमिषो दृष्टिर्गम्भीरिका च या ||२९|| 

यच्च वातहतं वर्त्म न ते सिध्यन्ति वातजाः | 

याप्योऽथ तन्मयः काचः साध्याः स्युःसान्यमारुताः ||३०||

शुष्काक्षिपाकाधीमन्थस्यन्दमारुतपर्ययाः |३१| 

असाध्यो ह्रस्वजाड्यो यो जलस्रावश्च पैत्तिकः ||३१|| 

परिम्लायी च नीलश्च याप्यः काचोऽथ तन्मयः | 

अभिष्यन्दोऽधिमन्थोऽम्लाध्युषितं शुक्तिका च या ||३२||

दृष्टिः पित्तविदग्धा च धूमदर्शी च सिध्यति |३३| 

असाध्यः कफजः स्रावो याप्यः काचश्च तन्मयः ||३३||

अभिष्यन्दोऽधिमन्थश्च बलासग्रथितं च यत् | 

दृष्टिः श्लेष्मविदग्धा च पोथक्यो लगण्श्च यः ||३४|| 

क्रिमिग्रन्थिपरिक्लिन्नवर्त्मशुक्लार्मपिष्टकाः [१] | 

श्लेष्मोपनाहः साध्यास्तु कथिताः श्लेष्मजेषु तु ||३५|| 

रक्तस्रावोऽजकाजातं शोणितार्शोव्रणान्वितम् [१] | 

शुक्रं न साध्यं काचश्च याप्यस्तज्जः प्रकीर्तितः ||३६|| 

मन्थस्यन्दौ क्लिष्टवर्त्म [२] हर्षोत्पातौ तथैव च | 

सिराजाताऽञ्जनाख्या च सिराजालं च यत् स्मृतम् ||३७||

पर्वण्यथाव्रणं शुक्रं शोणितार्मार्जुनश्च यः | 

एते साध्या विकारेषु रक्तजेषु भवन्ति हि ||३८|| 

पूयास्रावो नाकुलान्ध्यमक्षिपाकात्ययोऽलजी | 

असाध्याः सर्वजा याप्यः काचः कोपश्च पक्ष्मणः ||३९||

वर्त्मावबन्धो यो व्याधिः सिरासु पिडका च या | 

प्रस्तार्यर्माधिमांसार्म स्नाय्वर्मोत्सङ्गिनी च या ||४०|| 

पूयालसश्चार्बुदं च श्यावकर्दमवर्त्मनी | 

तथाऽर्शोवर्त्म शुष्कार्शः शर्करावर्त्म यच्च वै ||४१|| 

सशोफश्चाप्यशोफश्च पाको बहलवर्त्म च | 

अक्लिन्नवर्त्म कुम्भीका बिसवर्त्म च सिध्यति ||४२|| 

निमित्तोऽनिमित्तश्च द्वावसाध्यौ तु बाह्यजौ |४३|

षट्सप्ततिर्विकाराणामेषा सङ्ग्रहकीर्तिता [१] ||४३||

नव सन्ध्याश्रयास्तेषु वर्त्मजास्त्वेकविंशतिः | —–स्थानानुसार रोगों की संख्या 

शुक्लभागे दशैकश्च चत्वारः कृष्णभागजाः ||४४|| 

सर्वाश्रयाः सप्तदश दृष्टिजा द्वादशैव तु | 

बाह्यजौ द्वौ समाख्यातौ रोगौ परमदारुणौ | 

भूय एतान् प्रवक्ष्यामि सङ्ख्यारूपचिकित्सितैः ||४५||

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालक्यतन्त्रे औपद्रविको नाम प्रथमोऽध्यायः ||१||

Comments are closed.